अक्षरं परमं ब्रह्म ज्योतीरूपं सनातनम् । गुणातीतं निराकारं स्वेच्छामयमनन्तजम् ॥१॥ भक्तध्यानाय सेवायै नानारूपधरं वरम् । शुक्लरक्तपीतश्यामं युगानुक्रमणेन च ॥२॥ शुक्लतेजःस्वरूपं च सत्ये सत्यस्वरूपिणम् । त्रेतायां कुङ्कुमाकारं ज्वलन्तं ब्रह्मतेजसा ॥३॥ द्वापरे पीतवर्णं च शोभितं पीतवाससा । कृष्णवर्णं कलौ कृष्णं परिपूर्णतमं प्रभुम् ॥४॥ नवधाराधरोत्कृष्टश्यामसुन्दरविग्रहम् । नन्दैकनन्दनं वन्दे यशोदानन्दनं प्रभुम् ॥५॥ गोपिकाचेतनहरं राधाप्राणाधिकं परम् । विनोदमुरलीशब्दं कुर्वन्तं कौतुकेन च ॥६॥ रूपेणाप्रतिमेनैव रत्नभूषणभूषितम् । कन्दर्पकोटिसौन्दर्यं विभ्रतं शान्तमीश्वरम् ॥७॥ क्रीडन्तं राधया सार्धं वृन्दारण्ये च कुत्रचित् । कृत्रचिन्निर्जनेऽरण्ये राधावक्षःस्थलस्थितम् ॥८॥ जलक्रीडां प्रकुर्वन्तं राधया सह कुत्रचित् । राधिकाकबरीभारं कुर्वन्तं कुत्रचिद्वने ॥९॥ कुत्रचिद्राधिकापादे दत्तवन्तमलक्तकम् । राधार्चवितताम्बूलं गृह्णन्तं कुत्रचिन्मुदा ॥१०॥ पश्यन्तं कुत्रचिद्राधां पश्यन्तीं वक्रचक्षुषा । दत्तवन्तं च राधायै कृत्वा मालां च कुत्रचित् ॥११॥ कुत्रचिद्राधया सार्धं गच्छन्तं रासमण्डलम् । राधादत्तां गले मालां धृतवन्तं च कुत्रचित् ॥१२॥ सार्धं गोपालिकाभिश्च विहरन्तं च कुत्रचित् । राधां गृहीत्वा गच्छन्तं तां विहाय च कुत्रचित् ॥१३॥ विप्रपत्नीदत्तमन्नं भुक्तवन्तं च कुत्रचित् । भुक्तवन्तं तालफलं बालकैः सह कुत्रचित् ॥१४॥ वस्त्रं गोपालिकानां च हरन्तं कुत्रचिन्मुदा । गवां गणं व्याहरन्तं कुत्रचिद्बालकैः सह ॥१५॥ कालीयमूर्ध्नि पादाब्जं दत्तवन्तं च कुत्रचित् । विनोदमुरलीशब्दं कुर्वन्तं कुत्रचिन्मुदा ॥१६॥ गायन्तं रम्यसङ्गीतं कुत्रचिद्बालकैः सह । स्तुत्वा शक्रः स्तवेन्द्रेण प्रणनाम हरिं भिया ॥१७॥ पुरा दत्तेन गुरुणा रणे वृत्रासुरेण च । कृष्णेन दत्तं कृपया ब्रह्मणे च तपस्यते ॥१८॥ एकादशाक्षरो मन्त्रः कवचं सर्वलक्षणम् । दत्तमेतत्कुमाराय पुष्करे ब्रह्मणा पुरा ॥१९॥ तेन चाङ्गिरसे दत्तं गुरवेऽङ्गिरसा मुने । इदमिन्द्रकृतं स्तोत्रं नित्यं भक्त्या च यः पठेत् ॥२०॥ इह प्राप्य दृढां भक्तिमन्ते दास्यं लभेद्ध्रुवम् । जन्ममृत्युजराव्याधिशोकेभ्यो मुच्यते नरः ॥२१॥ न हि पश्यति स्वप्नेऽपि यमदूतं यमालयम् ॥२२॥ ।। इति श्रीब्रह्मवैवर्ते इन्द्रकृतं श्रीकृष्णस्तोत्रं समाप्तम् ।। ©Mukesh Rathore गोवर्धन पूजा . . . #govardhanpuja #2022 #Bannykrezy4